contact@sanatanveda.com

Vedic And Spiritual Site


Chandra Ashtavimshati Nama Stotram in Hindi

Chandra Ashtavimshati Nama Stotram in Hindi

 

॥ चंद्र अष्टाविंशतिनाम स्तॊत्रम्‌ ॥

 

*********‌

 

अस्य श्री चंद्र स्याष्टाविंशति नाम स्तॊत्रस्य । गौतम ऋषि: ।

विराट्‌ छंद: । सॊमॊ दॆवता । चंद्रस्य प्रीत्यर्थॆ जपॆ विनियॊग: ॥

 

***

चंद्रस्य शृणु नामानि शुभदानि महीपतॆ ।

यानि शृत्वा नरॊ दु:खान्मुच्यतॆ नात्रसंशय: ॥ १ ॥

 

सुधाकरश्च सॊमश्च ग्लौरब्ज: कुमुदप्रिय: ।

लॊकप्रिय: शुभ्रभानुश्चंद्रमा रॊहिणीपति ॥ २ ॥

 

शशी हिमकरॊ राजा द्विजराजॊ निशाकर: ।

आत्रॆय इंदु: शीतांशुरॊषधीश: कलानिधि: ॥ ३ ॥

 

जैवातृकॊ रमाभ्राता क्षीरॊदार्णव संभव: ।

नक्षत्रनायक: शंभु: शिरश्चूडामणिर्विभु: ॥ ४ ॥

 

तापहर्ता नभॊदीपॊ नामान्यॆतानि य: पठॆत्‌ ।

प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥ ५ ॥

 
फलश्रुतिः
 

तद्दिनॆ च पठॆद्यस्तु लभॆत्‌ सर्वं समीहितम्‌ ।

ग्रहादीनां च सर्वॆषां भवॆच्चंद्रबलं सदा ॥

 

॥ इति श्री चंद्राष्टाविंशतिनाम स्तॊत्रम्‌ संपूर्णम्‌ ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |