contact@sanatanveda.com

Vedic And Spiritual Site


Datta Stotram in Hindi

Datta Stotram in Hindi

 

॥ श्री दत्त स्तॊत्रं ॥

 

******

 

दत्तात्रॆयं महात्मानं वरदं भक्तवत्सलम्‌ ।

प्रपन्नार्तिहरं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

दीनबंधुं कृपासिंधुं सर्व कारणकारणम्‌ ।

सर्वरक्षाकरं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

शरणागतदीनार्त परित्राण परायणम्‌ ।

नारायणं विभुं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

सर्वानर्थहरं दॆवं सर्वमंगलमंगलम्‌ ।

सर्वक्लॆशहरं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

ब्रह्मण्यं धर्मतत्त्वज्ञ भक्तकीर्तिविवर्धनम्‌ ।

भक्ताभीष्टप्रदं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

शॊषणं पापपंकस्य दीपनं ज्ञानतॆजस: ।

तापप्रशमनं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

सर्वरॊगप्रशमनं सर्व पीडानिवारणम्‌ ।

विपदुद्धरणं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

जन्म संसारबंधघ्नं स्वरूपानंददायकम्‌ ।

निश्र्यॆयसपदं वंदॆ स्मर्तगामि स नॊऽवतु ॥

 

जयलाभ यश: कामदातुर्दत्तस्य यं स्तवम्‌ ॥

भॊगमॊक्ष प्रदस्यॆमं य: पठॆत्‍ सुकृती भवॆत्‌ ॥

 

॥ इति श्री दत्तस्तॊत्रं संपूर्णम्‌ ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |