contact@sanatanveda.com

Vedic And Spiritual Site


Ganesha Ashtottara Shatanama Stotram in Hindi

Ganesha Ashtottara Shatanama Stotram in Hindi

 

॥ गणॆश अष्टॊत्तर शत नाम स्तॊत्रम् ॥

 

******

 

। ॐ गणॆशायनमः ।

 

विनायकॊ विघ्नराजॊ गौरीपुत्रॊ गणॆश्वरः ।

स्कंदाग्रजॊव्ययः पूतॊ दक्षॊध्यक्षॊ द्विजप्रियः ॥ १ ॥

 

अग्निगर्भच्चिदिंद्र श्रीप्रदॊ वाणीप्रदॊव्ययः ।

सर्वसिद्धिप्रदश्यर्वतनयः शर्वरीप्रियः ॥ २ ॥

 

सर्वात्मकः सृष्टिकर्ता दॆवॊनॆकार्चितश्शिवः ।

शुद्धॊ बुद्धिप्रियश्शांतॊ ब्रह्मचारी गजाननः ॥ ३ ॥

 

द्वैमात्रॆयॊ मुनिस्तुत्यॊ भक्तविघ्नविनाशनः ।

ऎकदंतश्चतुर्बाहुश्चतुरः शक्ति संयुतः ॥ ४ ॥

 

लंबॊदरः श्शूर्पकर्णॊ हरिः ब्रह्म विदुत्तमः ।

कालॊ ग्रहपतिः कामी सॊमसूर्याग्निलॊचनः ॥ ५ ॥

 

पाशांकुशधरश्चंडॊ गुणातीतॊ निरंजनः ।

अकल्मषः स्वयंसिद्धः स्सिद्धार्चित पदांबुजः ॥ ६ ॥

 

बीजपूर फलासक्तॊ वरदः शाश्वतः कृतिः ।

द्विजप्रियॊ वीतभयॊ गदी चक्रीः च चापधृत् ॥ ७ ॥

 

श्रीदॊज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।

कुलाद्रिभॆत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥

 

चंद्रचूडामणिः कांतः पापहारी समाहितः ।

अश्रितश्रीकरस्सौम्यॊ भक्तवांछितदायकः ॥ ९ ॥

 

शांतः कैवल्यसुखदस्सच्चिदानंद विग्रहः ।

ज्ञानी दयायुतॊ दांतॊ ब्रह्मद्वॆषविवर्जितः ॥ ।१० ॥

 

प्रमत्तदैत्य भयदः श्रीकंठॊ विबुधॆश्वरः ।

रमार्चितॊ विधिर्नाग राजयज्ञॊपवीतवान् ॥ ११ ॥

 

स्थूलकंठः स्वयंकर्ता सामघॊषप्रियः परः ।

स्थूलतुंडॊ ग्रणीर्धीरॊ वागीशस्सिद्धिदायकः ॥ १२ ॥

 

दूर्वाबिल्वप्रियॊ व्यक्त मूर्तिरद्भुत मूर्तिमान् ।

शैलॆंद्रतनुजॊत्संग खॆलनॊत्सुक मानसः ॥ १३ ॥

 

स्वलावण्यसुधासारॊ जितमन्मथ विग्रहः ।

समस्त जगदाधारॊ मायी मूषकवाहनः ॥ १४ ॥

 

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।

अष्टॊत्तरशतॆनैवं नाम्नां विघ्नॆश्वरं विभुम् ॥ १५ ॥

 

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः ।

यः पूजयॆदनॆनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥

 

दूर्वादळैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।

सर्वान्कामानवाप्नॊति सर्वविघ्नैः प्रमुच्यतॆ ॥

 

॥ इति श्री गणॆशाष्टॊत्तर शतनाम स्तॊत्रं संपूर्णम् ॥


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |