|| गणॆश कवचम् ||
******
गौरी उवाच
ऎषॊति चपलॊ दैत्यान् बाल्यॆपि नाशयत्यहॊ ।
अग्रॆ किं कर्म कर्तॆति न जानॆ मुनिसत्तम ॥
दैत्या नानाविधा दुष्टाः स्साधु दॆवद्रुमः खलाः ।
अतॊस्य कंठॆ किंचित्त्वं रक्षां संबद्दुमर्हसि ॥
मुनिरुवाच
अथ ध्यानम्
ध्यायॆत् सिंहगतं विनायकममुं दिग्बाहु माद्यॆ युगॆ
त्रॆतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापरॆतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्यॆ
तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥
अथ कवचम्
विनायक श्शिखांपातु परमात्मा परात्परः ।
अतिसुंदर कायस्तु मस्तकं सुमहॊत्कटः ॥ १ ॥
ललाटं कश्यपः पातु भ्रूयुगं तु महॊदरः ।
नयनॆ भालचंद्रस्तु गजास्यस्यॊष्ठ पल्लवौ ॥ २ ॥
जिह्वां पातु गणक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दंतान् रक्षतु दुर्मुखः ॥ ३ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।
गणॆशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ ४ ॥
स्कंधौ पातु गजस्कंधः स्तनॆ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हॆरंबॊ जठरं महान् ॥ ५ ॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्युभः ।
लिंगं गुह्यं सदा पातु वक्रतुंडॊ महाबलः ॥ ६ ॥
गणक्रीडॊ जानु जंघॆ ऊरू मंगळकीर्तिमान् ।
ऎकदंतॊ महाबुद्धिः पादौ गुल्फौ सदावतु ॥ ७ ॥
क्षिप्र प्रसादनॊ बाहु पाणी आशाप्रपूरकः ।
अंगुलीश्च नखान् पातु पद्महस्तॊ रिनाशनः ॥ ८ ॥
सर्वांगानि मयूरॆशॊ विश्वव्यापी सदावतु ।
अनुक्तमपि यत् स्थानं धूम्रकॆतुः सदावतु ॥ ९ ॥
आमॊदस्त ग्रतः पातु प्रमॊदः पृष्ठतॊवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नॆयां सिद्धिदायकः ॥ १० ॥
दक्षिणस्यामुमापुत्रॊ नैरुत्यां तु गणॆश्वरः ।
प्रतिच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ ११ ॥
कौबॆर्यां निधिपः पायादीशान्या विषनंदनः ।
दिवाव्यादॆकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ १२ ॥
राक्षसासुर बॆताळ ग्रह भूत पिशाचतः ।
पाशांकुशधरः पातु रजस्सत्व तमस्मृतीः ॥ १३ ॥
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् ।
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ १४ ॥
सर्वायुध धरः पौत्रान् मयूरॆशॊ वतात् सदा ।
कपिलॊ जानुकं पातु गजाश्वान् विकटॊवतु ॥ १५ ॥
भूर्जपत्रॆ लिखित्वॆदं यः कंठॆ धारयॆत् सुधीः ।
न भयं जायतॆ तस्य यक्ष रक्षः पिशाचतः ॥ १६ ॥
त्रिसंध्यं जपतॆ यस्तु वज्रसार तनुर्भवॆत् ।
यात्राकालॆ पठॆद्यस्तु निर्विघ्नॆन फलं लभॆत् ॥ १७ ॥
युद्धकालॆ पठॆद्यस्तु विजयं चाप्नुयाद्भुवम्
मारणॊच्चाटनाकर्ष स्तंभ मॊहन कर्मणि ॥ १८ ॥
सप्तवारं जपॆदॆतद्दनानामॆकविंशतिः ।
तत्तत्फलमवाप्नॊति साधकॊ नात्र संशयः ॥ १९ ॥
ऎकविंशतिवारं च पठॆत्तावद्दिनानि यः ।
कारागृहगतं सद्यॊ राज्ञावध्यं च मॊचयॆत् ॥ २० ॥
राजदर्शन वॆळायां पठॆदॆतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयॆत् ॥ २१ ॥
इदं गणॆशकवचं कश्यपॆन सविरितम् ।
मुद्गलाय च तॆ नाथ मांडव्याय महर्षयॆ ॥ २२ ॥
मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।
न दॆयं भक्तिहीनाय दॆयं श्रद्धावतॆ शुभम् ॥ २३ ॥
अनॆनास्य कृता रक्षा न बाधास्य भवॆत् व्यचित् ।
राक्षसासुर बॆताळ दैत्य दानव संभवाः ॥ २४ ॥
॥ इती श्री गणॆशपुराणॆ श्री गणॆश कवचं संपूर्णम् ॥