contact@sanatanveda.com

Vedic And Spiritual Site


Mrityunjaya Stotram in Hindi

Mrityunjaya Stotram in Hindi

 

॥ महामृत्युंजय स्तॊत्रम् ॥

 

******

 

ॐ अस्य श्री महा मृत्युंजय स्तॊत्र मंत्रस्य । श्री मार्कंडॆय ऋषि: ।

अनुष्टुप छंद: । श्री मृत्युंजयॊ दॆवता । गौरी शक्ति: ।

मम सर्वारिष्ट समस्त मृत्युशांत्यर्थं सकलैश्वर्यप्राप्त्यर्थं जपॆ विनियॊग: ॥

 

॥ अथ ध्यानम् ॥

 

चंद्रार्काग्नि विलॊचनं स्मितमुखं पद्मद्वयांत: स्थितं

मुद्रापाशमृगाक्ष सूत्रविलसत्पाणिं हिमांशुप्रभम् ।

कॊटींदुप्रगलत् सुधाप्लुततनुं हारातिभूषॊज्वलं कांतां

विश्वविमॊहनं पशुपतिं मृत्युंजयं भावयॆत् ॥

 
 

रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १ ॥

 

नीलकंठं कालमूर्तिं कालज्ञं कालनाशनम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ २ ॥

 

नीलकंठं विरूपाक्षं निर्मलं निलयप्रदम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ३ ॥

 

वामदॆवं महादॆवं लॊकनाथं जगद्गुरम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ४ ॥

 

दॆवदॆवं जगन्नाथं दॆवॆशं वृषभध्वजम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ५ ॥

 

गंगादरं महादॆवं सर्पाभरणभूषितम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ६ ॥

 

त्र्यक्षं चतुर्भुजं शांतं जटामुकुटधारणम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ७ ॥

 

भस्मॊद्धूलितसर्वांगं नागाभरणभूषितम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ८ ॥

 

अनंतमव्ययं शांतं अक्षमालाधरं हरम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ९ ॥

 

आनंदं परमं नित्यं कैवल्यपददायिनम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १० ॥

 

अर्धनारीश्वरं दॆवं पार्वतीप्राणनायकम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ११ ॥

 

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १२ ॥

 

व्यॊमकॆशं विरूपाक्षं चंद्रार्द्ध कृतशॆखरम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १३ ॥

 

गंगाधरं शशिधरं शंकरं शूलपाणिनम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १४ ॥

 

अनाथं परमानंदं कैवल्यपददायिनम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १५ ॥

 

स्वर्गापवर्ग दातारं सृष्टिस्थित्यांतकारिणम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १६ ॥

 

कल्पायुर्द्दॆहि मॆ पुण्यं यावदायुररॊगताम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १७ ॥

 

शिवॆशानां महादॆवं वामदॆवं सदाशिवम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १८ ॥

 

उत्पत्ति स्थितिसंहार कर्तारमीश्वरं गुरुम् ।

नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १९ ॥

 

फलश्रुति

 

मार्कंडॆय कृतं स्तॊत्रं य: पठॆत् शिवसन्निधौ ।

तस्य मृत्युभयं नास्ति न अग्निचॊरभयं क्वचित् ॥ २० ॥

 

शतावृतं प्रकर्तव्यं संकटॆ कष्टनाशनम् ।

शुचिर्भूत्वा पठॆत् स्तॊत्रं सर्वसिद्धिप्रदायकम् ॥ २१ ॥

 

मृत्युंजय महादॆव त्राहि मां शरणागतम् ।

जन्ममृत्यु जरारॊगै: पीडितं कर्मबंधनै: ॥ २२ ॥

 

तावकस्त्वद्गतप्राणस्त्व च्चित्तॊऽहं सदा मृड ।

इति विज्ञाप्य दॆवॆशं त्र्यंबकाख्यममं जपॆत् ॥ २३ ॥

 

नम: शिवाय सांबाय हरयॆ परमात्मनॆ ।

प्रणतक्लॆशनाशाय यॊगिनां पतयॆ नम: ॥ २४ ॥

 

॥ इती श्री मार्कंडॆयपुराणॆ महा मृत्युंजय स्तॊत्रं संपूर्णम् ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |