contact@sanatanveda.com

Vedic And Spiritual Site


Navagraha Stotram in Hindi

Navagraha Stotram in Hindi

 

॥ नवग्रह स्तॊत्र ॥

 

******

 

अथ नवग्रह स्तॊत्रं

 

ध्यान श्लॊकम्‌

 

आदित्याय च सॊमाय मंगळाय बुधाय च ।

गुरु शुक्र शनिभ्यश्च राहवॆ कॆतवॆ नम: ॥

 

रवि

जपाकुसुम संकाशं काश्यपॆयं महाद्युतिम्‌ ।

तमॊरियं सर्व पापघ्नं प्रणतॊस्मि दिवाकरम्‌ ॥१॥

 

चंद्र

दधिशंख तुषाराभं क्षीरॊदार्णव संभवम्‌ ।

नमामि शशिनं सॊमं शंभॊर्‌मुकुट भूषणम्‌ ॥२॥

 

कुज

धरणी गर्भ संभूतं विद्युत्कांति समप्रभम्‌ ।

कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम्‌ ॥३॥

 

बुध

प्रियंगु कलिकाश्यामं रूपॆणा प्रतिमं बुधम्‌ ।

सौम्यं सौम्य गुणॊपॆतां तं बुधं प्रणमाम्यहम्‌ ॥४॥

 

गुरु

दॆवानां च ऋषिणां च गुरुं कांचन सन्निभम्‌ ।

बुद्धिभूतं त्रिलॊकॆशं तं नमामि बृहस्पतिम्‌ ॥५॥

 

शुक्र

हिमकुंद मृणालाभां दैत्यानाम परमं गुरुम्‌ ।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्‌ ॥६॥

 

शनि

नीलांजन समाभासं रविपुत्रं यमाग्रजम्‌ ।

छाया मार्तंड संभूतं तं नमामि शनैश्चरम्‌ ॥७॥

 

राहु

अर्धकार्यं महावीर्यं चंद्रादित्य विमर्दनम्‌ ।

सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम्‌ ॥८॥

 

कॆतु

पलाश पुष्प संकाशं तारकाग्रह मस्तकम्‌ |

रौद्रं रौद्रात्मकं घॊरं तं कॆतुं प्रणमाम्यहम्‌ ॥९॥

 

**

 

फलश्रुति:

 

इति व्यास मुखॊद्गीतं य: पठॆत सुसमाहित: ।

दिवा वा यदि वा रत्रौ विघ्न शांतिर्भविष्यति ॥१०॥

 

नर नारि नृपाणां च भवॆत दु:स्वप्ननाशनम्‌ ।

ऐश्वर्यमतुलं तॆषां आरॊग्यं पुष्टिवर्धनम्‌ ॥११॥

 

ग्रहनक्षतजा: पीडा स्तस्कराग्नि समुध्भवा ।

ता: सर्वा: प्रशमं व्यासॊ ब्रूतॆ न: संशय: ॥१२॥

 

॥ इति श्री व्यास विरचित नवग्रह स्तॊत्रं संपूर्णम्‌ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |