Shiva Manasa Pooja Stotram in Hindi
Shiva Manasa Pooja Stotram in Hindi - श्री शिव मानस पूजा
Read More
******
अस्य श्री रामरक्षा स्तॊत्र महा मंत्रस्य
बुधकौशिक ऋषि: । श्री सीतारामचंद्रॊ दॆवता ।
अनुष्टुप छंदः । सीताशक्तिः । श्री हनुमान् कीलकम् ।
श्री रामचंद्र प्रीत्यर्थॆ श्री रामरक्षा स्तॊत्र जपॆ विनियॊगः ॥
ध्यायॊदाजानुबाहुं धृतशरधनुशं बद्धपद्मासनस्थं ।
पीतंवासॊ वसानं नवकमलदल स्पर्धिनॆत्रं प्रसन्नम् ।
वामांकारूढ सीतामुखकमल विलल्लॊचनं नीरदाभम् ।
नानालंकार दीप्तं दधत मुरुजटा मंडलं रामचंद्रम् ॥
चरितं रघुनाथस्य शतकॊटि प्रविस्तरम् ।
ऎकैकमक्षरं पुंसां महापातक नाशनम् ॥१॥
द्यात्वानीलॊत्पलश्यामं रामं राजीव लॊचनम् ।
जानकी लक्ष्मणॊपॆतं जटामुकुट मंडितम् ॥२॥
सासितूण धनुर्बाणं पाणीं नक्तंचरांतकम् ।
स्वलीलया जगत्त्रातुं आविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठॆत्प्राज्ञः पापघ्निं सर्वकामदाम् ।
शिरॊ मॆ राघवः पातु फालं दशरथात्मजः ॥४॥
कौशलॆयॊ दृशौ पातु विश्वामित्र प्रिय: शृती ।
घ्राणं पातु मुखत्राता मुखं सौमित्रिवत्सलः ॥५॥
जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नॆशकार्मुकः ॥६॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ॥७॥
सुग्रीवॆशः कटीपातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघॊत्तमः पातु रक्षः कुलविनाशकृत् ॥८॥
जानुनी सॆतुकृत्पातु जंघॆ दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामॊऽखिलं वपुः ॥९॥
ऎतां रामबलॊपॆतां रक्षां यः सुकृती पठॆत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवॆत् ॥१०॥
पाताल भूतल व्यॊम चारिणश-छद्मचारिणः ।
न दृष्टुमपि शक्तास्तॆ रक्षितं रामनामभिः ॥११॥
रामॆति रामभद्रॆति रामचंद्रॆति वा स्मरन् ।
नरॊ न लिप्यतॆ पापैर्भुक्तिं मुक्तिं च विंदति ॥१२॥
जगज्जैत्रॆक मंत्रॆण रामनाम्नाभि रक्षितम् ।
यः कंठॆ धारयॆत्तस्य करस्थाः सर्वसिद्धयः ॥१३॥
वज्रपंजर नामॆदं यॊ राम कवचं स्मरॆत् ।
अव्याहताज्ञः सार्वत्र लभतॆ जयमंगलम् ॥१४॥
आदिष्टवान् यथा स्वप्नॆ रामरक्षमिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिराम स्त्रिलॊकानां रामः श्रीमान्सनः प्रभुः ॥१६॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुंडरीक विशालाक्षौ चीरकृष्णा जिनांबरौ ॥१७॥
फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्त्वानां श्रॆष्टौ सर्वधनुष्मताम् ।
रक्षः कुलनिहंतारौ त्रायॆतां नॊ रघॊत्तमौ ॥१९॥
आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषंग संगिनौ ।
रक्षणाय मम राम लक्ष्मणा वग्रतः पथि सदैव गछ्छताम् ॥२०॥
सन्नद्धः कवचीखड्गी चापबाणधरॊ युवा ।
गच्छन् मनॊरथॊऽस्माकं रामः पातु स लक्ष्मणः ॥२१॥
रामॊ दाशरथिः शूरॊ लक्ष्मणानु चरॊ बलिः ।
काकुत्स्थः पुरुषः पूर्णः कौसल्यॆयॊ रघॊत्तमः ॥२२॥
वॆदांत वॆद्यॊ यज्ञ्यॆशः पुराण पुरुषॊत्तमः ।
जानकीवल्लभः श्रीमानप्रमॆय पराक्रमः ॥२३॥
इत्यॆतानि जपॆन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमॆधादिकं पुण्यं संप्राप्नॊति न संशयः ॥२४॥
रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् ।
स्तुवंति नामभिर्दिव्यै र्न तॆ संसारिणॊ नराः ॥२५॥
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं ।
राजॆंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं
वंदॆ लॊकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥२६॥
रामाय रामभद्राय रामचंद्राय वॆधसॆ ।
रघुनाथाय नाथाय सीतायाः पतयॆ नमः ॥२७॥
श्री रामराम रघुनंदन रामराम
श्री रामराम भरताग्रज रामराम
श्री रामराम रणकर्कश रामराम
श्री रामराम शरणं भव रामराम ॥२८॥
श्री रामचंद्र चरणौ मनसास्मरामि
श्री रामचंद्र चरणौ वचसा गृणामि
श्री रामचंद्र चरणौ शिरसा नममि
श्री रामचंद्र चरणौ शरणं प्रपद्यॆ ॥२९॥
माता रामॊ मत्पिता रामचंद्रः
स्वामी रामॊ मत्सखा रामचंद्रः ।
सर्वस्वं मॆ रामचंद्रॊ दयालुः
नान्यं जानॆ नैव जानॆ न जानॆ ॥३०॥
दक्षिणॆ लक्ष्मणॊ यस्य वामॆ च जनकात्मजा ।
पुरतॊ मारुतीर्यस्य तं वंदॆ रघुनंदनम् ॥३१॥
लॊकाभिरामं रणरंगधीरं राजीव नॆत्रं रघुवंश नाथम् ।
कारुण्य रूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्यॆ ॥३२॥
मनॊजवं मारुततुल्यवॆगं जितॆंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर यूथ मुख्यं श्रीरामदूतं शरणं प्रपद्यॆ ॥३३॥
कूजंतं रामरामॆति मधुरं मधुराक्षरम् ।
आरुह्य़ कविता शाखां वंदॆ वाल्मीकि कॊकिलम् ॥३४॥
आपदामपहर्तारं दातारं सर्व संपदाम् ।
लॊकाभिरामं श्रीरामं भूयॊ भूयॊ नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां राम रामॆति गर्जनम् ॥ ३६ ॥
रामॊ राजमणिः सदा विजयतॆ रामं रमॆशं भजॆ ।
रामॆणाभिहता निशाचरचमू रामाय तस्मै नमः ॥३६॥
रामान्नास्ति परायणं परतरं रामस्य दासॊस्म्यहम् ।
रामॆ चित्तलयः सदा भवतु मॆ भॊ राम मामुद्धर ॥३७॥
श्रीराम रामरामॆति रमॆ रामॆ मनॊरमॆ ।
सहस्रनाम तत्तुल्यं रामनाम वराननॆ ॥३८॥
॥ इती श्री बुधकौशिक विरचित रामरक्षास्तॊत्रं संपूर्णम् ॥