contact@sanatanveda.com

Vedic And Spiritual Site


Shiva Sahasranama Stotram in Hindi

श्री शिव सहस्रनाम स्तॊत्रम्
Shiva Sahasranama Stotram in Hindi

 

Shiva Sahasranama Stotram in Hindi

Shiva Sahasranama Stotram Hindi is a sacred and powerful hymn of a thousand names dedicated to Lord Shiva (or Mahadeva), one of the principal deities in Hinduism. Sahasra’ means thousand and ‘Nama’ means name. Shiva Sahasranama consists of 1000 names of Lord Shiva, each name representing his divine qualities and attributes. Some of the names refer to Lord Shiva’s qualities as a creator, sustainer, and destroyer.

Lord Shiva's popularity can be attributed to the fact that Shiva Sahasranama is mentioned in several Hindu scriptures in different variations. It is believed that it is mentioned in at least eighteen different texts. While there are eight different versions of the Shiva Sahasranama Stotram Lyrics in different texts, the ones mentioned in Linga Purana and Anushasana Parva of Mahabharat are important. In the 17th chapter of Anushasana Parva, Lord Krishna acclaims the greatness of Lord Shiva with thousand names to Yudhisthira. Shiva Sahasranama Stotram Lyrics in Hindi and its meaning is given below. You can chant this daily with devotion to receive the blessings of Lord Shiva.


श्री शिव सहस्रनाम स्तॊत्रम्

शिव सहस्रनाम स्तोत्रम भगवान शिव (या महादेव) को समर्पित एक हजार नामों का एक पवित्र और शक्तिशाली भजन है, जो हिंदू धर्म के प्रमुख देवताओं में से एक है। सहस्र' का अर्थ है हजार और 'नाम' का अर्थ है नाम। शिव सहस्रनाम में भगवान शिव के 1000 नाम शामिल हैं, प्रत्येक नाम उनके दिव्य गुणों और विशेषताओं का प्रतिनिधित्व करता है। कुछ नाम भगवान शिव के गुणों को एक निर्माता, अनुचर और विध्वंसक के रूप में दर्शाते हैं।

भगवान शिव की लोकप्रियता का श्रेय इस तथ्य को दिया जा सकता है कि शिव सहस्रनाम का उल्लेख कई हिंदू ग्रंथों में विभिन्न रूपों में किया गया है। ऐसा माना जाता है कि इसका उल्लेख कम से कम अठारह विभिन्न ग्रंथों में मिलता है। जबकि विभिन्न ग्रंथों में शिव सहस्रनाम स्तोत्रम गीत के आठ अलग-अलग संस्करण हैं, लिंग पुराण और महाभारत के अनुषासन पर्व में वर्णित संस्करण महत्वपूर्ण हैं। अनुशासन पर्व के 17वें अध्याय में भगवान कृष्ण युधिष्ठिर को हजार नामों से भगवान शिव की महिमा की स्तुति करते हैं।

शिव सहस्रनाम स्तोत्रम के लाभ अपार हैं। ऐसा माना जाता है कि नियमित रूप से शिव सहस्रनाम स्तोत्रम का जाप करने से भक्तों को भगवान शिव से जुड़ने और उनका आशीर्वाद प्राप्त करने में मदद मिलेगी। यह शारीरिक और मानसिक कल्याण लाने में मदद करेगा और भक्त को नकारात्मक विचारों और भावनाओं पर काबू पाने में मदद करेगा। शिव सहस्रनाम स्तोत्र की लयबद्ध और मधुर रचना भक्त को ऊर्जा और आध्यात्मिक शक्ति प्रदान करेगी। भक्ति और ईमानदारी के साथ शिव सहस्रनाम का पाठ करने से कई आध्यात्मिक लाभ मिल सकते हैं।


Shiva Sahasranama Stotram Lyrics in Hindi

॥ श्री शिव सहस्रनाम स्तॊत्रम्‌ ॥

 

॥ ध्यानं ॥


वंदॆ शंभुमुमापतिं सुरगुरुं वंदॆ जगत्कारणम्‌ ।

वंदॆ पन्नगभूषणं मृगधरं वंदॆ पशूनांपतिम्‌ ॥

वंदॆ सूत्यशशांकवह्निनयनं वंदॆ मुकुंदप्रियम्‌ ।

वंदॆ भक्तजनाश्रयं च वरदं वंदॆ शिवं शंकरम्‌ ॥


पूर्व पीठिका


। वासुदॆव उवाच ।


तस्सप्रयशॊभूत्वा मम तात युधिष्टिर ।

प्रांजलिः प्राहविप्रर्षिर्नामसंग्रहमादितः ॥ १ ॥


। उपमन्युरुवाच ।


ब्रह्मप्रॊक्तैऋषिप्रॊक्तैर्वॆदवॆदांगसंभवैः ।

सर्वलॊकॆषु विख्यातं स्तुत्यं स्तॊष्यामिनामभिः ॥ २ ॥


महद्विर्विहितैस्सत्यैस्सिद्धै सर्वार्थसाधकैः ।

ऋषिणा तंडिना भक्त्या कृतैर्वॆदकृतात्मना ॥ ३ ॥


यथॊक्तैस्साधुभिः ख्यातैर्मुनिभिस्सत्त्वदर्शिभिः ।

प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम्‌ ॥ ४ ॥


श्रुतैस्सर्वत्र जगति ब्रह्मलॊकावतारि तैः ।

सत्यैस्तत्परमं ब्रह्मब्रह्मप्रोक्तैस्सनातनम्‌ ॥ ५ ॥


वक्ष्यॆ यदुकुलश्रॆष्ठ शृणुष्वावहितॊ मम ।

वरयैनं भवं दॆवं भक्तस्त्वं परमॆश्वरम्‌ ॥ ६ ॥


तॆन तॆ श्रावयिष्यामि यत्तद्ब्रह्मसनातनं ।

न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य कॆनचित्‌ ॥ ७ ॥


युक्तॆनापि विभूतिनामपि वर्षशतैरपि ।

यस्यादिर्मध्यमंतं च सुरैरपि न गम्यतॆ ॥ ८ ॥


कस्तस्य शक्नुयाद्वक्तुं गुणान्‌ कार्त्स्नैव माधव ।

किं तुं दॆवस्य महतः संक्षिप्तार्थपदाक्षरम्‌ ॥ ९ ॥


शक्तितश्चरितं वक्ष्यॆ प्रसादात्तस्य धीमतः ।

अप्राप्ततु ततॊऽनुज्ञां न शक्यः स्तॊतुमीश्वरः ॥ १० ॥


यदा तॆनाभ्यनुज्ञातः स्तुतॊ वै स तदा मया ।

अनादिनिधनस्याहं जगद्यॊनॆर्महात्मनः ॥ ११ ॥


नाम्नां कंचित्समुद्दॆशं वक्ष्याम्यव्यक्तयॊगिनः ।

वरदस्य वरॆण्यस्य विश्वरूपस्य धीमतः ॥ १२ ॥


शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयॊनिना ।

दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३ ॥


तानिनिर्मथ्यमनसा दध्नॊ घृतमिवॊद्दृतम्‌ ।

गिरॆस्सारं यथा हॆम पुष्पसारं यथा मधु ॥ १४ ॥


घृतात्सारं यथा मंडं तथैतत्सारमुद्धृतम्‌ ।

सर्वपापापहमिदं चतुर्वॆद समन्बितम्‌ ॥ १५ ॥


प्रयत्नॆनाधिगंतव्यं धार्यं च प्रयतात्मना ।

मांगल्यं पौष्टिकं चैव रक्षॊघ्नं पावनं महत्‌ ॥ १६ ॥


इदं भक्ताय दातव्यं श्रद्धधानास्तिकाय च ।

नाश्रद्धदानरूपाय नास्तिकायजितात्मनॆ ॥ १७ ॥


यश्चाभ्यसूयतॆ दॆवं कारणात्मानमीश्वरम्‌ ।

न कृष्ण नरकं याति सहपूर्वैस्सहात्मचैः ॥ १८ ॥


इदं ध्यानमिदं यॊगमिदं ध्यॆयमनुत्तमम्‌ ।

इदं जप्यमिदं ज्ञानं रहस्य मिदमुत्तमम्‌ ॥ १९ ॥


यं ज्ञात्वाह्यंत कालॆपि गच्छॆत परमां गतिं ।

पवित्रं मंगळं मॆध्यं कल्याणमिदमुत्तमम्‌ ॥ २० ॥


इदं ब्रह्मा पुराकृत्वा सर्वलॊकपितामहः ।

सर्वस्तवानां राजत्वॆ दिव्यानां समकल्पयत्‌ ॥ २१ ॥


तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।

स्तवराज इति ख्यातॊ जगत्यमरपूजितः ॥ २२ ॥


ब्रह्मलॊकादयं स्वर्गॆ स्तवराजॊऽवतारितः ।

यतस्तंडिः पुरा प्राप्य तॆन तंडिकृतॊऽभवत्‌ ॥ २३ ॥


स्वर्गाच्चैवात्रभूर्लॊकं तंडिना ह्यवतारितः ।

सर्वमंगळमांगल्यं सर्वपापप्रणाशनम ॥ २४ ॥


निगदिष्यॆ महाबाहॊ स्तवानामुत्तमं स्तवम्‌ ।

ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम्‌ ॥ २५ ॥


तॆजसामपि यत्तॆजस्तपसामपि यत्तपः ।

शांतीनामपि या शांतिः द्युतीनामपि या द्युतिः ॥ २६ ॥


दांतानामपि यॊ दांतॊ धीमतामपि या च धीः ।

दॆवानामपि यॊ दॆवः ऋषीणामपि यस्त्वृषिः ॥ २७ ॥


यज्ञानामपीयॊ यज्ञः शिवानामपीय शिवः ।

रुद्राणामपि तॊ रुद्रः प्रभा प्रभवतामपि ॥ २८ ॥


यॊगिनामपि यॊ यॊगी कारणानां च कारणम्‌ ।

यतॊलॊकास्संभवंति न भवंति यतः पुनः ॥ २९ ॥


सर्वभूतात्मभूतस्य हरस्यामित तॆजसः ।

अष्टॊत्तरसहस्रं तु नाम्नां सर्वस्य मॆ शृणु ।

यच्छ्रुत्तामनुजव्राघ्र सर्वान्कामानवाप्त्यसि ॥ ३० ॥


। इती पूर्व पीठिका ॥


॥ अथ श्री शिवसहस्रनाम स्तॊतम्‌ ॥


ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरॊ वरदॊ वरः ।

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः ॥ १ ॥


जटी चर्मी शिखंडी च सर्वांगः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २ ॥


प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतॊ ध्रुवः ।

श्मशानवासी भगवान्‌ खचरॊ गॊचरॊऽर्दनः ॥ ३ ॥


अभिवाद्यॊ महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवॆष प्रच्छन्नः सर्वलॊकप्रजापतिः ॥ ४ ॥


महारूपॊ महाकाय़ॊ वृषरूपॊ महायशाः ।

महात्मा सर्वभूतात्मा विश्वरूपॊ महाहनुः ॥ ५ ॥


लॊकपालॊऽंतर्हितात्मा प्रसादॊ हयगर्दभिः ।

पवित्रं च महांश्चैव नियमॊ नियमाश्रितः ॥ ६ ॥


सर्वकर्मा स्वयंभूत आदिरादिकरॊ निधिः ।

सहस्राक्षॊ विशालाक्षः सॊमॊ नक्षत्रसाधकः ॥ ७ ॥


चंद्रस्सूर्यश्यनिः कॆतुर्ग्रहॊ ग्रहपतिर्वरः ।

अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणॊऽनघः ॥ ८ ॥


महातपा घॊरतपा आदीनॊ दीनसाधकः ।

संवत्सरकरॊ मंत्रः प्रमाणं परमं तपः ॥ ९ ॥


यॊगी यॊज्यॊ महाबीजॊ महारॆता महाबलः ।

सुवर्णरॆताः सर्वज्ञः सुबीजॊ बीजवाहनः ॥ १० ॥


दशबाहुस्त्वनिमिषॊ नीलकंठ उमापतिः ।

विश्वरूपः स्वयंश्रॆष्ठॊ बलवीरॊऽबलॊगणः ॥ ११ ॥


गणकर्ता गणपतिर्दिग्वासाः काम ऎव च ।

मंत्रवित्परमॊमंत्रः सर्वभावकरॊहरः ॥ १२ ॥


कमंडलुधरॊ धन्वी बाणहस्तः कपालवान्‌ ।

अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्‌ ॥ १३ ॥


स्रुवहस्तः सुरूपश्च तॆजस्तॆजस्करॊ निधिः ।

उष्णीषी च सुवक्त्रश्च उदग्रॊ विनतस्तथा ॥ १४ ॥


दीर्घश्च हरीकॆशश्च सुतीर्थः कृष्ण ऎव च ।

सृगालरूपः सिद्धार्थॊ मुंडः सर्वशुभंकरः ॥ १५ ॥


अजश्च बहुरूपश्च गंधधारी कपर्द्यपि ।

ऊर्ध्वरॆता ऊर्ध्वलिंग ऊर्ध्वशायि नभस्थलः ॥ १६ ॥


त्रिजटी चीरवासाश्च रुद्रः सॆनापतिर्विभुः ।

अहश्चरॊ नक्तं चरस्तिग्ममन्युः सुवर्चसः ॥ १७ ॥


गजहा दैत्यहा कालॊ लॊकधाता गुणाकरः ।

सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ॥ १८ ॥


कालयॊगी महानादः सर्वकामाश्चतुष्पथः ।

निशाचरः प्रॆतचारी भूतचारी महॆश्वरः ॥ १९ ॥


बहुभूतॊ बहुधरः स्वर्भानुरमितॊ गतिः ।

नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलालसः ॥ २० ॥


घॊरॊ महातपाः पाशॊ नित्यॊ गिरिरुहॊ नभः ।

सहस्रहस्तॊ विजयॊ व्यवसायॊ ह्यतंद्रितः ॥ २१ ॥


अधर्षणॊ धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहॊ मध्यमस्तथा ॥ २२ ॥


तॆजॊऽपहारी बलहा मुदितॊऽर्थॊऽजितॊवरः ।

गंभीरघॊषॊ गंभीरॊ गंभीरबलवाहनः ॥ २३ ॥


न्यग्रॊधरूपॊ न्यग्रॊधॊ वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्ण दशनश्चैव महाकायॊ महाऽननः ॥ २४ ॥


विश्वक्सॆनॊ हरिर्यज्ञः संयुगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्‌ ॥ २५ ॥


विष्णुप्रसादितॊ यज्ञः समुद्रॊ वडवामुखः ।

हुताशनसहायश्च प्रशांतात्मा हुताशनः ॥ २६ ॥


उग्रतॆजा महातॆजा जन्यॊ विजयकालवित्‌ ।

ज्यॊतिषामयनं सिद्धिः सर्वविग्रह ऎव च ॥ २७ ॥


शिखी मंडी जटी ज्वाली मूर्तीजॊ मूर्धगॊ बली ।

वॆणवी पणवी ताली खली कालकंटंकटिः ॥ २८ ॥


नक्षत्र विग्रहमतिः गुणबुद्धिर्लयॊऽगमः ।

प्रजापतिर्विश्वबाहुर्विभागः सर्वगॊमुखः ॥ २९ ॥


विमॊचनः सुसरणॊ हिरण्यकवचॊध्भवः ।

मॆढ्रजॊ बलचारी च महीचारी स्रुतस्तथा ॥ ३० ॥


सर्वतूर्यनिनादी च सर्वतॊद्य परिग्रहः ।

व्यालरूपॊ गुहावसी गुहॊ माली तरंगवित्‌ ॥ ३१ ॥


त्रिदशस्त्रिकालधृत्कर्म सर्वबंधविमॊचनः ।

बंधनस्त्वसुरॆंद्राणां युधि शत्रुविनाशनः ॥ ३२ ॥


सांख्यप्रसादॊ दुर्वासाः सर्वसाधुनिषॆवितः ।

प्रस्कंदनॊ विभागज्ञॊऽतुल्यॊ यज्ञविभागवित्‌ ॥ ३३ ॥


सर्ववासः सर्वचारी दुर्वासा वासवॊऽमरः ।

हैमॊ हॆमकरॊऽयज्ञः सर्वधारी धरॊत्तमः ॥ ३४ ॥


लॊहिताक्षॊ महाक्षश्च विजयाक्षॊ विशारदः ।

संग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥


मुख्यॊऽमुख्यश्च दॆहश्च काहलिः सर्वकामदः ।

सर्वकाल प्रसादश्च सुबलॊ बलरूपधृक्‌ ॥ ३६ ॥


सर्वकामवरश्चैव सर्वदः सर्वतॊमुखः ।

आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७ ॥


रौद्ररूपॊऽंशुरादित्यॊ बहुरश्मिः सुवर्चसी ।

वसुवॆगॊ महावॆगॊ मनॊवॆगॊ निशाचरः ॥ ३८ ॥


सर्ववासी श्रीयावासी उपदॆशकरॊऽकरः ।

मुनिरात्मनिरालॊकः संभग्नश्च सहस्रदः ॥ ३९ ॥


पक्षी च पक्षरूपश्च अतिदीप्तॊ विशांपतिः ।

उन्मादॊ मदनः कामॊ ह्यश्वत्थॊऽर्थकरॊ यशः ॥ ४० ॥


वामदॆवश्च वामश्च प्राग्दक्षिणश्च वामनः ।

सिद्धयॊगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१ ॥


भिक्षुश्चभिक्षुरूपश्च विपणॊ मृदुरव्ययः ।

महासॆनॊ विशाखश्च षष्टिभागॊ गवांपतिः ॥ ४२ ॥


वज्रहस्तश्च विष्कंभी चमूस्तंभन ऎव च ।

वृत्तावृत्तकरस्तालॊ मधुर्मधुकलॊचनः ॥ ४३ ॥


वाचस्पत्यॊ वाजसनॊ नित्यमाश्रमपूजितः ।

ब्रह्मचारी लॊकचारी सर्वचारी विचारवित्‌ ॥ ४४ ॥


ईशान ईश्वरः कालॊ निशाचारी पिनाकवान्‌ ।

निमित्तस्थॊ निमित्तं च नंदिर्नंदकरॊहरिः ॥ ४५ ॥


नंदीश्वरश्च नंदी च नंदनॊ नंदिवर्धनः ।

भगहारी निहंता च कालॊ ब्रह्मा पितामहः ॥ ४६ ॥


चतुर्मुखॊ महालिंगश्चारुलिंगस्तथैव च ।

लिंगाध्यक्षः सुराध्यक्षॊ यॊगाध्यक्षॊ युगावहः ॥ ४७ ॥


बीजाध्यक्षॊ बीजकर्ता अध्यात्माऽनुगतॊ बलः ।

इतिहासः सकल्पश्च गौतमॊऽथ निशाकरः ॥ ४८ ॥


दंभॊ ह्यदंभॊ वैदंभॊ वश्यॊ वशकरः कलिः ।

लॊककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९ ॥


अक्षरं परमं ब्रह्म बलवच्छक्र ऎव च ।

नीतर्ह्यनीतिः शुद्धात्मा शुद्धॊ मान्यॊ गतागतः ॥ ५० ॥


बहुप्रसादः सुस्वप्नॊ दर्पणॊऽथ त्वमित्रजित्‌ ।

वॆदकारॊ मंत्रकारॊ विद्वान्‌ समरमर्दनः ॥ ५१ ॥


महामॆघनिवासी च महाघॊरॊ वशीकरः ।

अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊहविः ॥ ५२ ॥


वृषणः शंकरॊ नित्यं वर्चस्वी धूमकॆतनः ।

नीलस्तथाऽंगलुब्धश्च शॊभनॊ निरवग्रहः ॥ ५३ ॥


स्वस्तिदः स्वस्तिभावश्च भागी भागकरॊ लघुः ।

उत्संगश्च महांगश्च महागर्भपरायणः ॥ ५४ ॥


कृष्णवर्णः सुवर्णश्च इंद्रियं सर्वदॆहिनाम्‌ ।

महापादॊ महाहस्तॊ महाकायॊ महायशाः ॥ ५५ ॥


महामूर्धा महामात्रॊ महानॆत्रॊ निशालयः ।

महांतकॊ महाकर्णॊ महॊष्ठश्च महाहनुः ॥ ५६ ॥


महानासॊ महाकंबुर्महाग्रीवः स्मशानभाक्‌ ।

महावक्षा महॊरस्यॊ ह्यंतरात्मा मृगालयः ॥ ५७ ॥


लंबनॊ लंबितॊष्ठश्च महामायः पयॊनिधिः ।

महादंतॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः ॥ ५८ ॥


महानखॊ महारॊमा महाकॆशॊ महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययॊ गिरिसाधनः ॥ ५९ ॥


स्नॆहनॊऽस्नॆहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारॊ वृक्षकॆतुरनलॊ वायुवाहनः ॥ ६० ॥


गंडली मॆरुधामा च दॆवाधिपतिरॆव च ।

अथर्वशीर्षः सामास्य ऋक्सहस्रामितॆक्षणः ॥ ६१ ॥


यजुःपादभुजॊ गुह्यः प्रकाशॊ जंगमस्तथा ।

अमॊघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२ ॥


उपकारः प्रियः सर्वः कनकः कांचनच्छविः ।

नाभिर्नंदिकरॊ भावः पुष्करस्थ पतिः स्थिरः ॥ ६३ ॥


द्वादशस्त्रासनश्चाद्यॊ यज्ञॊ यज्ञसमाहितः ।

नक्तं कलिश्चकालश्च मकरः कालपूजितः ॥ ६४ ॥


सगणॊ गणकारश्च भूतवाहनसारथिः ।

भस्माशयॊ भस्मगॊप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥


लॊकपालस्तथाऽलॊकॊ महात्मासर्वपूजितः ।

शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषॆवितः ॥ ६६ ॥


आश्रमस्थः क्रियाऽवस्थॊ विश्वकर्ममतिर्वरः ।

विशालशाखस्ताम्रॊष्ठॊ ह्यंबुजालः सुनिश्चलः ॥ ६७ ॥


कपिलः कपिशः शुक्ल आयुश्चैव परॊऽपरः ।

गंधर्वॊ ह्यदितिस्तार्क्ष्वः सुविज्ञॆयः सुशारदः ॥ ६८ ॥


परश्वधायुधॊ दॆवः अनुकारी सुबांधवः ।

तुंबवीणॊ महाक्रॊध ऊर्ध्वरॆता जलॆशयः ॥ ६९ ॥


उग्रॊ वंशकरॊ वंशॊ वंशनादॊ ह्य़निंदितः ।

सर्वांगरूपॊ मायावी सुहृदॊ ह्यनिलॊऽनलः ॥ ७० ॥


बंधनॊ बंधकर्ता च सुबंधन विमॊचनः ।

सुयज्ञारिः सकामारिर्महादंष्ट्रॊ महाऽयुधः ॥ ७१ ॥


बहुधा निंदितः शर्वः शंकरः शंकरॊऽधनः ।

अमरॆशॊ महादॆवॊ विश्वदॆवः सुरारिहा ॥ ७२ ॥


अहिर्बुध्न्यॊऽनिलाभश्च चॆकितानॊ हरिस्तथा ।

अजैकपाच्चकापाली त्रिशंकुरजितः शिवः ॥ ७३ ॥


धन्वंतरिर्धूमकॆतुः स्कंदॊ वैश्रवणस्तथा ।

धाता शक्रश्चविष्णुश्च मित्रस्त्वष्टाध्रुवॊ धरः ॥ ७४ ॥


प्रभावः सर्वगॊ वायुरर्यमा सविता रविः ।

उषंगुश्चविधाता च मांधाता भूतभावनः ॥ ७५ ॥


विभुर्वर्णविभावी च सर्वकामगुणावहः ।

पद्मनाभॊ महागर्भश्चंद्र वक्त्रॊऽविलॊऽनलः ॥ ७६ ॥


बलवांश्चॊपशांतश्च पुराणः पुण्यचंचुरी ।

कुरुकर्ता कुरुवासि कुरुभूतॊ गुणौषधः ॥ ७७ ॥


सर्वाशयॊ दर्भचारी सर्वॆषां प्राणिनां पतिः ।

दॆवदॆवः सुखासक्तः सदसत्सर्वरत्नवित्‌ ॥ ७८ ॥


कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।

कूलहारी कूलकर्ता बहुविद्यॊ बहुप्रदः ॥ ७९ ॥


वणिजॊ वर्धकी वृक्षॊ बकुलश्चंदनश्छदः ।

सारग्रीवॊ महाजत्रुरलॊलश्च महौषधः ॥ ८० ॥


सिद्धार्थकारी सिद्धार्थश्छंदॊव्याकरणॊत्तरः ।

सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१ ॥


प्रभावात्मा जगत्कालस्थालॊ लॊकहितस्तरुः ।

सारंगॊ नवचक्रांगः कॆतुमाली सभावनः ॥ ८२ ॥


भूतालयॊ भूतपतिरहॊरात्रमनिंदितः ।

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥ ८३ ॥


अमॊघः संयतॊ ह्यश्वॊ भॊजनः प्राणधारणः ।

धृतिमान्‌ मतिमान्‌ दक्षः सत्कृतश्चयुगाधिपः ॥ ८४ ॥


गॊपालिर्गॊपतिर्ग्रामॊ गॊचर्मवसनॊ हरिः ।

हिरण्यबाहुश्चतथा गुहापालः प्रवॆशिनाम्‌ ॥ ८५ ॥


प्रकृष्टारिर्महाहर्षॊ जितकामॊ जितॆंद्रियः ।

गांधारश्चसुवासनश्च तपस्सक्तॊरतिर्नरः ॥ ८६ ॥


महागीतॊ महानृत्यॊ ह्यप्सरॊगणसॆवितः ।

महाकॆतुर्महाधातुर्नैकसानुचरश्चलः ॥ ८७ ॥


आवॆदनीय आदॆशः सर्वगंधसुखावहः ।

तॊरणस्तारणॊ वातः परिधी पतिखॆचरः ॥ ८८ ॥


संयॊगॊ वर्धनॊ वृद्धॊ अतिवृद्धॊ गुणाधिकः ।

नित्यात्मा सहायश्च दॆवासुरपतिः पतिः ॥ ८९ ॥


युक्तश्च युक्तबाहुश्च दॆवॊदिविसुपर्वण ।

आषाढश्च सुषाढश्च धृवॊथ हरिणॊ हरः ॥ ९० ॥


वपुरावर्तमानॆभ्यॊ वसुश्रॆष्ठॊ महापथः ।

शिरॊहारी विमर्शश्च सर्वलक्षणलक्षितः ॥ ९१ ॥


अक्षश्च रथयॊगी च सर्वयॊगी महाबलः ।

समाम्नायॊऽसमाम्ना यस्तीर्थदॆवॊ महारथः ॥ ९२ ॥


निर्जीवॊ जीवनॊ मंत्रः शुभाक्षॊ बहुकर्कशः ।

रत्नप्रभूतॊ रत्नांगॊ महार्णवनिपानवित्‌ ॥ ९३ ॥


मूलं विशालॊ ह्यमृतॊ व्यक्ताव्यक्तस्तपॊनिधिः ।

आरॊहरणॊऽधिरॊहश्च शीलधारी महायशाः ॥ ९४ ॥


सॆनाकल्पॊ महाकल्पॊ यॊगॊ यॊगकरॊ हरिः ।

युगरूपॊ महारूपॊ महानागहनॊ वधः ॥ ९५ ॥


न्यायविर्वपणः पादः पंडितॊ ह्यचलॊपमः ।

बहुमालॊ महामालः शशी हरसुलॊचनः ॥ ९६ ॥


विस्तारॊ लवणः कूपस्त्रियुगः सफलॊदयः ।

त्रिलॊचनॊ विषण्णांगॊ मणिविद्धॊ जटाधरः ॥ ९७ ॥


बिंदुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ।

निवॆदनः सुखाजातः सुगंधारॊ महाधनुः ॥ ९८ ॥


गंधपाली च भगवानुत्थानः सर्वकर्मणाम्‌ ।

मंथानॊ बहुलॊ वायुः सकलः सर्वलॊचनः ॥ ९९ ॥


तलस्तालः करस्थाली ऊर्ध्वसंहननॊ महान्‌ ।

छत्रं सुच्छत्र विख्यातॊ लॊकः सर्वाश्रयः क्रमः ॥ १०० ॥


मुंडॊ विरूपॊ विकृतॊ दंडी कुंडी विकुर्वणः ।

हर्यक्षः ककुभॊ वज्री शतजिह्वः सहस्रपात्‌ ॥ १०१ ॥


सहस्रमूर्धा दॆवॆंद्रः सर्वदॆवमयॊ गुरुः ।

सहस्रबाहुः सर्वांगः शरण्यः सर्व लॊककृत्‌ ॥ १०२ ॥


पवित्रं त्रिककुन्मंत्रः कनिष्ठः कृष्णपिंगलः ।

ब्रह्मदंडविनिर्माता शतघ्नीपाश शक्तिमान्‌ ॥ १०३ ॥


पद्मगर्भॊ महागर्भॊ ब्रह्मगर्भॊ जलॊद्भवः ।

गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्र्राह्मणॊगतिः ॥ १०४ ॥


अनंतरूपॊ नैकात्मा तिग्मतॆजाः स्वयंभुवः ।

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनॊजवः ॥ १०५ ॥


चंदनी पद्मनालाग्रः सुरभ्युत्तरणॊ नरः ।

कर्णिकारमहास्रग्वी नीलमौळिः पिनाकधृत्‌ ॥ १०६ ॥


उमापतिरुमाकांतॊ जाह्नवीधृदुमाधवः ।

वरॊ वराहॊ वरदॊ वरॆण्यः सुमहास्वनः ॥ १०७ ॥


महाप्रसादॊदमनः शत्रुहा श्वॆतपिंगलः ।

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्‌ ॥ १०८ ॥


सर्वपार्श्वमुखस्त्रैक्षॊ धर्मसाधारणॊ वरः ।

चराचरात्मा सूक्ष्मात्मा अमृतॊ गॊवृषॆश्वरः ॥ १०९ ॥


साध्यर्षिर्वसुरादित्यॊ विवस्वान्‌ सविताऽमृतः ।

व्यासः सर्गः सुसंक्षॆपॊ विस्तरः पर्ययॊ नरः ॥ ११० ॥


ऋतुः संवत्सरॊ मासः पक्षः संख्यासमापनः ।

कला काष्ठालवा मात्रा मुहूर्ताः क्षपाः क्षणाः ॥१११ ॥


विश्वक्षॆत्रं प्रजाबीजं लिंगमाद्यस्तुनिर्गमः ।

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥ ११२ ॥


स्वर्गद्वारं प्रजाद्वारं मॊक्षद्वारं त्रिविष्टपम्‌ ।

विर्वाणं ह्लादनश्चैव ब्रह्मलॊकः परा गतिः ॥ ११३ ॥


दॆवासुरविनिर्माता दॆवासुरपरायणः ।

दॆवासुरगुरुर्दॆवॊ दॆवासुरनमस्कृतः ॥ ११४ ॥


दॆवासुरमहामात्रॊ दॆवासुरगणाश्रयः ।

दॆवासुरगणाध्यक्षॊ दॆवासुरगणाग्रणीः ॥ ११५ ॥


दॆवादिदॆवॊ दॆवर्षिर्दॆवासुरवरप्रदः ।

दॆवासुरॆश्वरॊ विश्वॊ दॆवासुरमहॆश्वरः ॥ ११६ ॥


सर्वदॆवमयॊऽचिंत्यॊ दॆवतात्माऽत्मसंभवः ।

उद्भित्‌ त्रिविक्रमॊ वैद्यॊ विरजॊ नीरजॊऽमरः ॥ ११७ ॥


ईड्यॊ हस्तीश्वरॊ व्याघ्रॊ दॆवसिंहॊ नरर्षभः ।

विबुधॊऽग्रवरः सूक्ष्मः सर्वदॆवस्तपॊमयः ॥ ११८ ॥


सुयुक्तः शॊभनॊ वज्री प्रासानां प्रभवॊऽव्ययः ।

गुहः कांतॊ निजः सर्गः पवित्रं सर्वपावनः ॥ ११९ ॥


शृंगी शृंगप्रियॊ बभ्रू राजराजॊ निरामयः ।

अभिरामः सुरगणॊ विरामः सर्वसाधनः ॥ १२० ॥


ललाटाक्षॊ विश्वदॆवॊ हरिणॊ ब्रह्मवर्चसः ।

स्थावराणां पतिश्चैव नियमॆंद्रियवर्धनः ॥ १२१ ॥


सिद्धार्थः सिद्धभूतार्थॊऽचिंत्यः सत्यव्रतः शुचिः ।

व्रताधिपः परंब्रह्म भक्तानां परमागतिः ॥ १२२ ॥


विमुक्तॊ मुक्ततॆजाश्च श्रीमानः श्रीवर्धनॊ जगत्‌ ॥

श्रीमानः श्रीवर्धनॊ जगतः ऒं नम इति ॥


। फलशृतिः ।


यथाप्रधानं भगवानिति भक्त्या स्तुतॊ मया ।

यन्न ब्रह्मादयॊ दॆवा विदुस्तत्वॆन नर्षयः ॥ १ ॥


स्तॊतव्यमर्च्यं वंद्यं च कः स्तॊष्टति जगत्पतिम्‌ ।

भक्त्यात्वॆवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ २ ॥


ततॊऽभ्यनुज्ञां संप्राप्य स्तुतॊ मतिमतां वरः ।

शिवमॆभिः स्तुवन्‌ दॆवं नामभिः पुष्टिवर्धनैः ॥ ३ ॥


नित्ययुक्तः शुचिर्भक्तः प्राप्नॊत्यात्मानमात्मना ।

ऎतद्धिपरमं ब्रह्मपरं ब्रह्माधिगच्छति ॥ ४ ॥


ऋषयश्चैव दॆवाश्च स्तुवंत्यॆतॆन तत्परम्‌ ।

स्तूयमानॊ महादॆवस्तुष्यतॆ नियतात्मभिः ॥ ५ ॥


भक्तानुकंपी भगवानात्म संस्थाकरॊ विभुः ।

तथैव च मनुष्यॆषु यॆ मनुष्याः प्रधानतः ॥ ६ ॥


आस्तिकाः श्रद्धधानाश्च बहुभिर्जन्मभिः स्तवैः ।

भक्त्याह्यनन्यमीशानं परं दॆवं सनातनम्‌ ॥ ७ ॥


कर्मणा मनसा वाचा भावॆनामिततॆजसः ।

शयाना जाग्रमाणाश्चव्रजन्नुपविशंस्तथा ॥ ८ ॥


उन्निषन्निमिषंश्चैव चिंतयंतः पुनः पुनः ।

शृण्वंतः श्रावयंतश्च कथयंतश्चतॆ भवम्‌ ॥ ९ ॥


स्तुवंतः स्थूयमानाश्च तुष्यंति च रमंति च ।

जन्मकॊटिसहस्रॆषु नानासंसारयॊनिषु ॥ १० ॥


जंतॊर्विगतपापस्य भवॆ भक्तिः प्रजायतॆ ।

उत्पन्ना च भवॆ भक्तिरनन्या सर्वभावतः ॥ ११ ॥


भाविनः कारणॆ चास्य सर्वयुक्तस्य सर्वथा ।

ऎतद्दॆवॆषु दुष्ट्रापं मनुष्यॆषु न लभ्यतॆ ॥ १२ ॥


निर्विघ्ना निश्चला रुद्रॆ भक्तिरव्यभिचारिणी ।

तस्यैव च प्रसादॆन भक्तिरुत्पद्यतॆ नृणाम्‌ ॥ १३ ॥


यॆन यांति परमां सिद्धिं तद्भावगततॆजसः ।

यॆ सर्वभावानुगताः प्रपद्यंतॆ महॆश्वरम्‌ ॥ १४ ॥


प्रपन्नवत्सलॊ दॆवः संसारात्तान्‌ समुद्धरॆत्‌ ।

ऎवमन्यॆ विकुर्वंति दॆवाः संसारमॊचनम्‌ ॥ १५ ॥


मनुष्याणामृतॆ दॆवं नान्या शक्तिसपॊबलम्‌ ।

इति तॆनॆंद्र कल्पॆन भगवान्‌ सदसत्पतिः ॥ १६ ॥


कृत्तिवासाः स्तुतः कृष्ण तंडिना शुभ बुद्धिना ।

स्तवमॆतं भगवतॊ ब्रह्मास्वयमधारयत्‌ ॥ १७ ॥


गीयतॆ च स बुद्ध्यॆत ब्रह्माशंकरसंनिधौ ।

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्‌ ॥ १८ ॥


यॊगदं मॊक्षदं चैव स्वर्गदं तॊषदं तथा ।

ऎवमॆतत्पतंतॆ य ऎकभक्त्या तु शंकरम्‌ ॥ १९ ॥


या गतिः सांख्ययॊगानां व्रजंत्यॆतां गतिं तदा ।

स्तवमॆतं प्रत्नॆन सदा रुद्रस्य संनिधौ ॥ २० ॥


अब्दमॆकः चरॆद्भक्त प्राप्नु यादीप्सितं फलम्‌ ।

ऎतद्रहस्यं परमं ब्रह्मणॊ हृदि संस्थितम्‌ ॥ २१ ॥


ब्रह्माप्रॊवाच शक्राय शक्रः प्रॊवाच मृत्यवॆ ।

मृत्युः प्रॊवाच रुद्रॆभ्यॊ रुद्रॆभस्तंडिमागमत्‌ ॥ २२ ॥


महता तपसा प्राप्तस्तंडिना ब्रह्मसद्मनि ।

तंडिः प्रॊवाच शुक्राय गौतमाय च भार्गवः ॥ २३ ॥


वैवस्वताय मनवॆ गौतमः प्राह माधव ।

नारायणाय साध्याय समाधिष्ठाय धीमतॆ ॥ २४ ॥


यमाय प्राह भगवान्‌ साध्यॊ नारायणॊऽच्युतः ।

नाचिकॆताय भगवानाह वैवस्वतॊ यमः ॥ २५ ॥


मार्कंडॆयान्मया प्राप्तॊ नियमॆन जनार्दन ॥ २६ ॥


तवाप्यहममित्र घ्नस्तवं दद्यां ह्यविश्रुतम्‌ ।

स्वर्ग्यमारॊग्यमायुष्यं धन्यं वॆदॆन संमितम्‌ ॥ २७ ॥


सास्य विघ्नं विकुर्वंति दानवा यक्षराक्षसाः ।

पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ २८ ॥


यः पठॆत्‌ शुचिः पार्थ ब्रह्मचारी जितॆंद्रियः ।

अभग्नयॊगॊ वर्षंतु सॊऽश्वमॆधफलं लभॆत्‌ ॥ २९ ॥


॥ इति श्री शिवसहस्रनाम स्तॊत्रं संपूर्णम्‌ ॥



Shiva Sahasranama Stotram Meaning in Hindi

शिव सहस्रनाम स्तोत्रम और उसका अर्थ नीचे दिया गया है। देवी शिव की कृपा प्राप्त करने के लिए आप प्रतिदिन भक्ति के साथ इसका जाप कर सकते हैं।

  • ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरॊ वरदॊ वरः ।
    सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः ॥ १ ॥

    वह जो सर्वोच्च भगवान, शाश्वत, वरदान देने वाला, उत्कृष्ट है। जो सभी में सबसे प्रसिद्ध है, जो सभी का आत्मा है, जो सभी को पूरा करता है और सब कुछ है, उसे नमस्कार है।

  • जटी चर्मी शिखंडी च सर्वांगः सर्वभावनः ।
    हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २ ॥

    वह जो जटाओं को धारण करता है, जिसके अंग के रूप में सारा संसार है, और जो हर जगह मौजूद है। जो सब दु:खों का नाश करने वाले, मृग के समान नेत्रवाले, सब प्राणियों के दु:ख हरने वाले और सब के स्वामी हैं, उनको नमस्कार है॥

  • प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतॊ ध्रुवः ।
    श्मशानवासी भगवान्‌ खचरॊ गॊचरॊऽर्दनः ॥ ३ ॥

    वह सृजन और विघटन का स्रोत है, जो शाश्वत और अपरिवर्तनशील है। जो शमशान में निवास करते हैं और सभी प्राणियों के स्वामी हैं, जो आकाश और पृथ्वी पर विचरण करते हैं, उन्हें नमस्कार है।

  • अभिवाद्यॊ महाकर्मा तपस्वी भूतभावनः ।
    उन्मत्तवॆष प्रच्छन्नः सर्वलॊकप्रजापतिः ॥ ४ ॥

    वह जो वंदना के योग्य है, जो महान कर्म करता है, जो महान तपस्वी है, जो सभी जीवों को उत्पन्न करता है। जो पागल का रूप धारण करता है, जो छिपा हुआ है, और जो सभी लोकों में सभी प्राणियों का स्वामी है, उसे नमस्कार है।

  • महारूपॊ महाकाय़ॊ वृषरूपॊ महायशाः ।
    महात्मा सर्वभूतात्मा विश्वरूपॊ महाहनुः ॥ ५ ॥

    वह जो महान रूप का है, जिसका विशाल शरीर है, जो बैल के रूप में है, जो महान प्रसिद्धि का है। जो महान आत्मा हैं, सभी प्राणियों की आत्मा हैं, जिनके पास ब्रह्मांड का रूप है, और जिनके पास एक महान जबड़ा है, उन्हें नमस्कार है।


Shiva Sahasranama Stotram Benefits

The benefits of Shiva Sahasranama Stotram are immense. It is believed that chanting Shiva Sahasranama Stotram regularly will help devotees to connect with Lord Shiva and receive his blessings. It will help bring physical and mental well-being and help the devotee to overcome negative thoughts and emotions. The rhythmic and melodic composition of the Shiva Sahasranama Stotram will give energy and spiritual strength to the devotee. Reciting this mantra with devotion and sincerity can bring many spiritual benefits.


Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |