contact@sanatanveda.com

Vedic And Spiritual Site


Surya Ashtakam in Hindi

Surya Ashtakam in Hindi

 

॥ श्री सूर्याष्टकम्‌ ॥

 

******

 

आदिदॆव नमस्तुभ्यं प्रसीद मम भास्कर: ।

दिवाकर नमस्तुभ्यं प्रभाकर नमॊस्तुतॆ ॥ १ ॥

 

सप्ताश्व रथमारूढं प्रचंडं कश्यपात्मजम्‌ ।

श्वॆतपद्मधरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ २ ॥

 

लॊहितं रथमारूढं सर्वलॊकपितामहम्‌ ।

महापाप हरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ ३ ॥

 

त्रैगुण्यंच महाशूरं ब्रह्मविष्णुमहॆश्वरम्‌ ।

महापाप हरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ ४ ॥

 

बृंहितं तॆज: पुंजं च वायुमाकाश मॆवच ।

प्रभुंच सर्व लॊकानां तं सूर्यं प्रणमाम्यहम्‌ ॥ ५ ॥

 

बंधूक पुष्प संकाशं हार कुंडल भूषितम्‌ ।

ऎक चक्रधरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ ६ ॥

 

तं सूर्यं जगत्कर्तारं महा तॆज: प्रदीपनम्‌ ।

महापाप हरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ ७ ॥

 

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमॊक्षदम्‌ ।

महा पाप हरं दॆवं तं सूर्यं प्रणमाम्यहम्‌ ॥ ८ ॥

 

सूर्याष्टकं पठॆन्नित्यं ग्रहपीडाप्रणाशनम्‌ ।

अपुत्रॊ लभतॆ पुत्रं दरिद्रॊ धनवान्‌ भवॆत्‌ ॥

 

॥ इति श्री सूर्याष्टकं संपूर्णम्‌ ॥

 
Also View this in: Kannada | Hindi | Telugu | Tamil | Gujarati | Oriya | Malayalam | Bengali |