॥ श्री दत्त स्तॊत्रं ॥
********
दत्तात्रॆयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वंदॆ स्मर्तगामि स नॊऽवतु ॥
दीनबंधुं कृपासिंधुं सर्व कारणकारणम् ।
सर्वरक्षाकरं वंदॆ स्मर्तगामि स नॊऽवतु ॥
शरणागतदीनार्त परित्राण परायणम् ।
नारायणं विभुं वंदॆ स्मर्तगामि स नॊऽवतु ॥
सर्वानर्थहरं दॆवं सर्वमंगलमंगलम् ।
सर्वक्लॆशहरं वंदॆ स्मर्तगामि स नॊऽवतु ॥
ब्रह्मण्यं धर्मतत्त्वज्ञ भक्तकीर्तिविवर्धनम् ।
भक्ताभीष्टप्रदं वंदॆ स्मर्तगामि स नॊऽवतु ॥
शॊषणं पापपंकस्य दीपनं ज्ञानतॆजस: ।
तापप्रशमनं वंदॆ स्मर्तगामि स नॊऽवतु ॥
सर्वरॊगप्रशमनं सर्व पीडानिवारणम् ।
विपदुद्धरणं वंदॆ स्मर्तगामि स नॊऽवतु ॥
जन्म संसारबंधघ्नं स्वरूपानंददायकम् ।
निश्र्यॆयसपदं वंदॆ स्मर्तगामि स नॊऽवतु ॥
जयलाभ यश: कामदातुर्दत्तस्य यं स्तवम् ॥
भॊगमॊक्ष प्रदस्यॆमं य: पठॆत् सुकृती भवॆत् ॥
॥ इति श्री दत्तस्तॊत्रं संपूर्णम् ॥